________________ सुभाषितसूक्तरत्नमाला ___ 74 लक्ष्मीमहत्वख्यापकसूक्तानि तानीन्द्रियाणि विदितं च तदेव नाम, सा बुद्धिरप्रतिहता वचनं तदेव / अर्थोष्मणा विरहितः पुरुषः क्षणेन, सोऽप्यन्य एव भवतीति किमत्र चित्रम् ? // 1 // यावत्साराणि टाराणि, ठक्कुरष्ठक्कुरायते / गते सारे मृते टारे, ठक्कुरष्ठिकरायते // 2 // टकारामष्टका धाम, टका हि परमं पदम् / यस्मिन् गृहे टका नास्ति, तद्गृहं टक्टकायते // 3 // यस्याऽस्ति वित्तं स नरः कुलीनः, स पण्डितः श्रुतवान् गुणज्ञः। स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते // 4 // पूज्यते यदपूज्योऽपि, यदगम्योऽपि गम्यते / वन्द्यते यदवन्योऽपि, तत्प्रभावो धनस्य हि // 5 // आदरं लभते लोको, न क्वाऽपि धनवर्जितः / कान्तिहीनो यथा चन्द्रो, वासरे न लभेत् प्रथाम् // 6 // मृत्युनिःस्वतयोर्मध्ये, वरं मृत्युन निःस्वता। पूर्वस्मादल्पदुःखत्वं, परस्माच्च पदे पदे // 7 // उत्सङ्गे सिन्धुभर्तुर्भवति मधुरिपुर्गाढमाश्लिष्य लक्ष्मी, अध्यास्ते वित्तनाथो निधिनिवहमुपादाय कैलासशैलम् /