________________ 288 सुभाषितसूकरत्नमाला योगे पीनपयोधराञ्चिततनोविच्छेदने बिभ्यतां, मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् / विश्लेषस्मरवह्निनानुसमयं दन्दह्यमानात्मनां, भ्रातः ! सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् // 17 // मध्ये स्वां कृशतां कुरङ्गकदृशोभूनेत्रयोर्वक्रतां / कौटिल्यं चिकुरेषु रागमघरे मान्धं गतिप्रक्रमे / काठिन्यं कुचमण्डले तरलतामक्ष्णोनिरीक्ष्य स्फुटं, वैराग्यं न भजन्ति मन्दमतयः कामातुरा हि नराः // 18 // पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं, चक्षुः क्षीणवलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् / स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः, पश्यन्तोऽपि जडा हहा हृदि सदा ध्यायन्ति तांप्रेयसीम्॥१९॥ अन्यायार्जितवित्तवत् क्वचिदपि भ्रष्टं समस्तै रदैः, तापाक्रान्ततमालपत्रवदभूद् हहा अङ्गावलीभंगुरम् / केशेषु क्षणचन्द्रवद्धवलिमाव्यक्तं श्रितो यद्यपि, स्वैरं धावति मे तथाऽपि हृदयं भोगेषु मुग्धं हहा ! // 20 // उदगृणन्ति प्रपश्चन, योषितो गद्गदां गिरम् / तामामनन्ति प्रेमोक्ति, कामग्रहिलचेतसः // 21 // शृङ्गारद्रुमनीरदे प्रसृमरक्रोडारसस्रोतसि, प्रद्युम्नप्रियबान्धवे चतुरवार मुक्ताफलोदन्वति /