________________ प्रमादत्यागसूक्तानि 187. ये नैकाङ्गुलितर्जनामपि गुरोः सोढुं समर्था नराः, मानाभ्युन्नतमानसांश्च सकलं पश्यन्त्यधस्ताज्जगत् / ते कामेन कदर्थिता धृतिभिदा पादैहता योपितां, आज्ञां मूर्धभिरुद्वहन्ति कृपणा राज्ञाभिव प्रोल्बणाम् // 11 // सौख्यं वारिधिवारितोऽपि विपुलं मुञ्चन्ति ये स्वर्गिणां, मूढा गोष्पदवारितोऽपि लघुनः सौख्यस्य हेतो नृणाम् / त्यक्त्वा सारशितोपलादिकलितं स्वर्धामधेनोः पयः, तृष्णाब्याकुलितेक्षणाः प्रकुथितं गृह्णन्ति ते काञ्जिकम् // 12 // सति प्रदीपे सत्यग्नौ, सत्सु नानामणिषु च / विनैकां मृगशावासिं, तमोभूतमिदं जगत् / / 13 // स्तनौ मांसग्रन्थी कनककलशावित्युपमिती, मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् / स्रवन्मुत्रक्लिन्नं करिवरशिरःस्पर्द्धि जवनं, मुहुनिन्धं रूपं कविजनविशेपैर्गुरुकृतम् // 14 // श्रुत्वाऽऽद्वानं स्त्रियस्तामनुसरति रसो हंसकोन्नादपादेनाशोकः स्पृष्टमात्रस्तिलककुरुबको चुम्बनालिङ्गनाभ्याम् / पुष्पेद्वक्त्राब्जबासाधिकरससुरया केसरश्चेद्विकारोऽप्येषां तत्सत्यकीवाधिक विषयरतियातु नो किं भवार्तिम् // नटवन्नतितः शम्भुः, पुत्र्यां रागी कृतो विधिः, हन्ताऽऽत्मयोनिना येन, किमेतत्तस्य कथ्यते // 16 //