________________ 186 सुभाषितसूक्तरत्नमाला दन्तीन्द्रदन्तदलनेकविधौ समर्थाः, सन्त्यत्र रौद्रमृगराजवधे प्रवीणाः। आशीविषोरगवशीकरणेऽपि दक्षाः, पञ्चाक्षनिर्जयपरास्तु न सन्ति मर्त्याः, // 4 // गेहं जर्जरमाखुभिः कृतविलं चेलं च युकालयः, शय्यामत्कुणसंकुला वपुषि रुग् रुक्षाशनं भोजनम् / वृत्तिर्भारवहादिका परुषवागज्ञा कुरुपा वधूः, यस्येत्थं ननु सोऽपि नोज्झति गृहासङ्ग महामूढधी: // 5 // तार्ण जीर्ण कुटीरं वृषणकुलकुलैः संकुलं धान्यशून्य, काणा काली कुरूपा कटुरटनपरा गेहिनी स्नेहहीना / दण्डी खण्डी च हण्डी श्रुतिविकलखरी द्वारि कोकूयमाना, जीवानां संपदेषा रमयति ह्रदयं धिग् महामोहचेष्टा // 6 // दिवा पश्यति नोलूकः, काको नक्तं न पश्यति / अपूर्वः कोऽपि कामान्धो, दिवा नक्तं न पश्यति // 7 // अप्राप्तत्वभ्रमादुच्चै-वाप्तेष्वप्यनन्तशः। . कामभोगेषु मूढानां, समीहा नोपशाम्यति // 8 // सौम्यत्वमिव सिंहानां, पन्नगानामिव क्षमा / विषयेषु प्रवृत्तानां, वैराग्यं खलु दुर्वचम् // 9 // अकृत्वा विषयत्यागं, यो वैराग्यं दिधीर्षति / अपथ्यमपरित्यज्य, स रोगोच्छेदमिच्छति // 10 //