________________ प्रमादत्यागसूक्तानि 185 ताराध्यतारातटिनीभुजङ्ग-तरङ्गगङ्गासिकताकणानाम् / संख्यां स कृत्वा कुरुतां हि धर्म, यो धर्ममीप्सुः कृतगेहकृत्यः॥ यश्चेद्विपश्चिन्न च पश्चिमेऽपि, वयस्यनालस्यमधत्त धर्मे / दासत्वमासेदुप एव तस्य, जन्मोभयी यास्यति पाप्मभाजः।। सुठ्ठ वाइयं, सुट्ट गाइयं, सुट्ठ नच्चिअं सामसुंदरि ! अणुपालिय दीहराइया, सुमिणन्ते मा पमायए // 5 // 66 विषयविडम्बनासूक्तानि केचिद् भोजनभङ्गीनिर्भरधियः केचित् पुरन्ध्रीपराः, केचि न्माल्यविलेपनैकरसिकाः केचिच्च गीतोत्सुकाः। केचिद् द्यूतकथामृगव्यमदिरानृत्यादिवद्धादराः, केचिद् वाजिगजोक्षयानरसिका धन्यास्तु धर्मे रताः // 1 // भिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम् / वस्त्रं च जीर्णशतखण्डमयी च कन्था / हा हा तथापि विषयान्न परित्यजन्ति // 2 // कृशः काणः खन्नः श्रवणरहितः पुच्छविकलो, वणीपूयक्लिन्नः कृमिकुलशतैरावृततनुः। क्षुधाक्षामो जीर्णः पीठरककपालार्पितगलः, शूनीमन्वेति श्वा हतमपि च हन्त्येव मदनः // 3 //