________________ लोभदुष्टतासूक्तानि माया क्वाऽपि न कर्तव्या, सुधिया स्वहितैषिणा / साऽनर्थाय कृता कन्याऽर्थिके भरटके यथा // 6 // मायावीनी भयंकरता बालेनाचुम्बिता नारी, ब्राह्मणोऽतृणग्राहकः / काष्ठीभूतो वने पक्षी, जीवानां रक्षको व्रती // 7 // आश्चर्याणीति चत्वारि, मयापि निजलोचनैः / दष्टान्यहो ततः कस्मिन् , विश्वसीमि नन्वहं खलु // 8 // कथञ्चित्तेन न ज्ञातं, श्राद्धवं छद्मनाऽन्वितम् / सुप्रयुक्तस्य दम्भस्य, ब्रह्माप्यन्त न गच्छति / / 9 / / 63 लोभदुष्टतासूक्तानि यावन्न द्रव्यं भवने प्रभूतं, तावत् सचिन्तस्तदुपार्जनाय / प्राप्तेऽपि तस्मिन् धनरक्षणायो-पायैः सदाव्यग्रमना जनोऽयम् // 1 // यावन्न लावण्यकलं कलत्रं, प्राप्तं तदा म्रियतेऽत्र तावत् / प्राप्तेऽपि चाप्ते सकले कलत्रे, पुत्राप्तिकामः पुरुषं दुनोति // 2 // धनेश्वरो प्राप्तकलत्रवांश्च, प्रभूतपुत्रोऽपि जनाश्रितोऽपि / काष्ठं घुणौधैरिव रोगशौकै-नरः समर्थोऽप्यवलीक्रियेत // 3 // मुखाय धत्से यदि लोभमात्मनो, ज्ञानादिरत्नत्रितये विधेहि तत् / 12