________________ 178 सुभाषितसूक्तरत्नमाला दुःखाय चेदत्र परत्र वा कृतिन् ! .. परिग्रहे तद्वहिरान्तरेऽपि च // 4 // . वहनिस्तुष्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधिः, तद्वन्मोहधनो धनैरपि धनैर्जन्तुर्न सन्तुष्यति / नत्वेवं मनुते विमुच्य विभवं नि:शेषमन्यं भवं, यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् // 5 / / यद् दुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते / सेवन्ते कृपणं पतिं गजघटासंघटदुःसंचरं, सर्पन्ति प्रधनं धनान्धितधियस्तल्लो भविस्फूर्जितम् // 6 // जहा लाहो तहा लोहो, लाहा लोहो पवढइ / दोमासकणयकज्जे, कोडिए वि न निद्रियं // 7 // .64 प्रमाददुष्टता सूक्तानि वध्यस्य चौरस्य यथा पशोर्वा, संप्राप्यमाणस्य पदं वधस्य / शनैः शनैरेति मृतिः समीपं, तथाऽखि लस्येति कथं प्रमादः॥१॥ चौरैस्तथा कर्मकरैगृहीते, दुष्टैः स्वमात्रेऽप्युपतप्यसे त्वम् / पुष्टैः प्रमादेस्तनुभिश्च पुण्यधनं न कि वेत्स्यपि लुण्ट यमानम् // 2 // यस्यागमाम्भोदरसैन धौत:, प्रमादपङ्कः स कथं शिवेच्छुः?। : रसायनयस्य गदाः क्षता ना, सुदुलभ जीवितमस्य नूनम् // .