________________ सुभाषितसूक्तरत्नमाला विद्ययैव मदो येषां, कार्पण्यं विभवे सति / तेषां देवाभिभूतानां, सलिलादग्निरुत्थितः // 8 // बलिभ्यो बलिनः सन्ति, वादिभ्यः सन्ति वादिनः / धनिभ्यो धनिनः सन्ति, तस्माद् दपं त्यजेद् बुधः॥९॥ विषभारसहस्रेण, वासुकिनॆव गर्जति / वृश्चिकस्तृणमात्रेणा-युग्रं वहति कण्टकम् // 10 // व्रतानि चीर्णानि तपोभितप्तं, कृतापि यत्नेन च पिण्डशुद्धिः। अभूत् फलं यत्तु न निन्हवाना-मसद्ग्रहस्यैव हि सोपराधः // 11 // 62 मायादुष्टतासूक्तानि विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति / ते वञ्चयन्ति त्रिदिवापवर्ग--मुखान्महामोहसखा स्वमेव // 1 // सुत्यजं रसलाम्पटयं, सुत्यजं देहभूषणम् / / सुत्यजाः कामभोगाश्च, दुस्त्यजं दम्भसेवनम् // 2 // किं व्रतेन तपोभिर्वा, दम्भश्चन्न निराकृतः। किमादर्शेन किं दीपै-यदान्ध्यं न दृशोर्गतम् // 3 // अहो ! मोहस्य माहात्म्यं, दीक्षां भागवतीमपि / दम्भेन यद्विलुम्पन्ति, कज्जलेनैव रुपकम् // 4 // दम्भलेशोऽपि मल्ल्यादेः, स्त्रीत्वानर्थनिबन्धनम् / अतस्तत् परिहाराय, यतितव्यं महात्मना // 5 //