________________ 170 सुभाषितसूक्तरत्नमाला धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु सर्वदा। अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च // 17 // धनं क्याऽपि यशः क्वाऽपि, पुण्यं क्वाऽपि यथाक्रमम् / नीचमध्योत्तमैः प्रार्थ्य-मुपकारतरो: फलम् // 18 // बालभावाल्लधिष्ठाश्चे-न चलन्त्यग्रजाज्ञया / तथापि स शुभान्वेषी, परुषं ताडयेन्न तान् // 19 // अधिकारपदं प्राप्य, नोपकारं करोति चेत् / अकारस्य ततो लोपः, ककारो द्वित्वमाप्नुयात् // 20 // धन्यः प्रागुपकुर्वीत, धन्यो मन्येत यत्कृतम् / धन्यः प्रत्युपकुर्वीत, त्रयोऽमी पुरुषोत्तमाः॥२१॥ एह्यागच्छ समाविशासनमिदं प्रीतोऽस्मि ते दर्शनात् , का वार्ता पुरि दुर्बलोऽसि च कथं कस्मात् चिराद् दृश्यसे / इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात् , तेषां युक्तमशङ्कितेन मनसा गन्तुं गृहे सर्वदा // 22 // यद्वत्कर्करकम्बुरत्नमुदधौ नाशाङ्गभोगव्ययत्यागं च श्रियि पत्रपुष्फलमप्युर्वीरुहि श्रीफले / काये रोगमलोपकारकरणं दुष्कर्मकीर्त्यर्जनापुण्यं चाधममध्यमोत्तमतया तद्वन्मनुष्यायुषि // 23 // स एव पूज्यो भवति, गुरुश्च जनकोऽपि च / शिष्यं सुतं च यः काऽपि, नैवोन्मार्गे प्रवर्तयेत् // 24 //