________________ परोपकारसूतानि तृणं चाऽहं वरं मन्ये; नरादनुपकारिणः / ग्रासो भूत्वा पशून् पाति, भीरून् पाति रणाङ्गणे // 9 // नैव नद्यः पिबन्त्यम्भो, वृक्षाः स्वादन्ति नो फलम् / मेघाः शस्यं च नाऽश्नन्ति, क्लमोऽमीषां परार्थकृत् // 10 // दानं वित्तादृतं वाचः, कीर्तिधौं तथायुषः / परोपकरणं काया-दसारात्सारमुद्धरेत् // 11 // बोधयन्ति न याचन्ते, भिक्षाद्वारा गृहे गृहे / दीयतां दीयतां किश्चि-ददातुः फलमीदृशम् // 12 // किंपौरुषं रक्षति येन नार्त्तान्, किंवा धनं नार्थिजनाय यत्स्यात् / सा का क्रिया या न हितानुबन्धा, किंजीवितं साधुविरोधि यत्स्यात् // 13 // छायामन्यस्य कुर्वन्ति, स्वयं तिष्ठन्ति चातपे। फलन्ति च परस्यार्थे, नात्महे तोर्महाद्रुमाः // 14 // एके सत्पुरुषाः परार्थरचकाः स्वार्थ परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृत: स्वार्थाविरोधेन ये। तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये, ये तु नन्ति निरर्थकं परहितं ते के ? न जानीमहे // 15 // दो पुरिसे धरउ धरा, अहवा दोहिं विधारिया धरणी। उवयारे जस्स मई, उवयरियं जो न विस्सरइ // 16 //