________________ सुभाषितसूक्तरत्नमाला साधुभ्यः साधुदानं रिपुजनसुहृदां चोपकारान् कुरु त्वं, सौजन्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्य यथार्थम् / कर्णान्ते तथ्यमेतत्कथयति भवतो लेखिनी भाग्यशालिन् !, नो चेन्नष्टेऽधिकारे मम मुखसदृशं तावकास्यं भवेद्धि // 3 // शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः / किन्त्वाकर्ण्य निरीक्ष्य वाऽन्यमनु दुःखादितं यन्मनः, ताद्रप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पश्चषाः॥४॥ कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिखिनां रोमाण्यवीनामपि / पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किश्चन, स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किञ्चित्पुनः॥५॥ गत्वान्तर्दशनं तनोति शुचितां गोमुख्यकुक्षिस्थितं, दुग्धीभूय जगद्धिनोति नयति ध्वंसं क्षुधं पाशवीम् / शीताद्यं दलयत्यवत्यरिंगणात्प्राणान् परार्थोद्यतं, यद्येवं तृणमप्यहो ! ननु तदा वाच्यः किमीदृग् जनः // 6 // श्लोकाढेन प्रवक्ष्यामि, यदुक्तं ग्रन्थकोटिभिः / परोपकारः पुण्याय, पापाय परपीडनम् // 7 // कृतभूरिपरित्राणाः, प्राणा यान्ति स्वयं नृणाम् / तैश्वेत्परोपकारः स्यात् , सुन्दरं किमतः परम् // 8 //