________________ विवेकसूतानि 163 तेणं चिय जयगुरुणो, तित्थयरा वि हु गिहत्थभावम्मि / अम्मापिउणमुचिअं, अब्भुट्ठाणाइ कुव्वंति // 11 // ममैवायं दोषो यदपरभवे नार्जितमहो !, शुभं यस्माल्लोको भवति मयि कुप्रीतिहृदयः। अपापस्यैवं मे कथमपरथा मत्सरमयं, जनो याति स्वार्थ प्रति विमुखतामेति सहसा // 12 // रोगिवृद्धान्धपूज्यानां, बालधेनुक्षमाभुजाम् / भारयुक्तगर्भिणीनां, मार्ग दत्त्वा बुधश्चरेत् // 13 // सत्त्वं सत्त्वहितं चेत् स्याद् , बुद्धिः सिद्धिसमृद्धिदा / कारुण्यं देहतारुण्यं, तदैतत् सवसंभवः // 14 // यथाऽद्रिषु गुरुर्मेरु-ग्रहेषु दिवसाधिपः / चिन्तामणिश्च रत्नेषु विवेकोऽपि गुणेविति // 15 // विवेकनी विशेषता यत्सन्तोषमुखं यदि न्द्रियदमो यच्चेतसः शान्तता, यहीनेषु दयालुता यदपि गीः सत्यामृतस्यन्दिनी / शौर्य धैर्यमनार्यसङ्गविरतिय सङ्गतिः सज्जने, एते ये परिणामसुन्दरतराः सर्वे विवेकाङ्कराः // 16 // विवेको दुःखदावाग्निर्विवेकोऽज्ञानतस्करः। विवेकः संपदां मूलं, दयावनीधनाधनः // 17 // (स्वोपज्ञ)