________________ 262 सुभाषितसूक्तरत्नमाला आहारनिद्राभयमैथुनानि, तुल्यानि सार्द्ध पशुभिर्नराणाम् / ज्ञानं विशेषं खलु मानुषाणां, ज्ञानेन हीनाः पशवो मनुष्याः॥२॥ सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन / अतिरभसकृतानां कर्मणामाविपत्तेभवति हृदयदाही शल्यतुल्यो विपाकः // 3 // क्रोधावेशे नदीपूर-प्रवेशे पापकर्मणि / अजीर्गे भुक्तौ भीस्थाने, कालक्षेपः प्रशस्यते // 4 // धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे / शत्रुधाते च रोगे च, कालक्षेपं न कारयेत् // 5 // प्रस्तावे भाषितं वाक्यं, प्रस्तावे दाननगिनाम् / प्रस्तावे वृष्टिरल्पाऽपि, भवेत्कोटिफलप्रदा // 6 // व्यूढो गणभृतां शद्धः, सत्पुम्भिौतमादिभिः / यो जानानः कुपात्रे तं, न्यस्येत् पापी स कथ्यते // 7 // तुल्ले वि उअरभरणे, मूढ अमूढाण अंतरं पिच्छ / एगाण निरयदुक्खं, अन्नेसिं सासयं नुक्खं // 8 // जाणाहि जीवलोए, दो चेव नरेण सिक्खिअव्वाई। कम्मेण जेण जीवइ, जेण मओ सुग्गई जाइ // 9 // औचित्यमेकमेकत्र, गुणानां कोटिरेकतः / विषायते गुणग्राम, औचित्यपरिवर्जितः। // 10 //