________________ दैवसूक्तानि 157 अहियं मरणं अहियं च, जीवियं पावकम्मकारीणं / तमसम्मि पडंति मया, वैरं वदंति जीवंता // 6 // हिंसाऽनृतादयः पञ्च, तत्त्वाश्रद्धानमेव च / क्रोधादयश्च चत्वार, इति पापस्य हेतवः // 7 // दुष्टानां दुर्जनानां च, पापीनां क्रूरकर्मणाम् / अनाचारप्रवृत्तानां, पापं फलति तद्भवे // 8 // __ 52 दैवसूक्तानि विधिविधाता नियतिः स्वभावः, कालो ग्रहाश्वेश्वरकर्मदेवाः। भाग्यानि पुण्यानि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य / खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके, वान्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः // तत्राऽप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः // 2 // भाग्याधिकं नैव नराधिपोऽपि, ददाति वित्तं चिरसेवकेभ्यः। निरन्तरं वर्षति वारिधारः, तथापि पत्रत्रितयं पलाशे // 3 // अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते / विधिरेव तानि घटयति, यानि पुमान् नैव चिन्तयति // 4 // भग्नाशस्य करण्डपिण्डिततनोर्गुप्तेन्द्रियस्य क्षुधा, कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः /