________________ 156 सुभाषितसूक्तरत्नमाला. दानं प्रियवाक्सहितं, ज्ञानमगवं क्षमान्वितं शौर्यम् / त्यागसहितं च वित्तं, दुर्लभमेतच्चतुर्भद्रम् // 20 // महीनाथा महातीर्थ, महौषध्यो मुनीश्वराः / अल्पभाग्यवतां पुंसां, प्रायो दुर्लभदर्शनाः॥२१॥ .. तओ ठाणाई देवेहिंपीहिज्जा तं जहा-माणुस्सगं भवं, आरियखित्ते जम्म, सुकुलपच्चइयं जाई // 22 // स्थाने निवासः सुकुलं कलत्रं, पुत्र पवित्रः स्वजनानुरागः / आयाच्च वित्तं सुहितं च चित्त, निश्छद्मधर्मश्च सुखानि सप्त // 51 पापसूक्तानि द्यूतं च मांसं च सुरा च वेश्या, पापधिचौर्ये परदारसेवा / एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं नयन्ति॥१॥ अन्यस्थाने कृतं पापं, धर्मस्थाने विनश्यति / धर्मस्थाने कृतं पापं वज्रलेपो भविष्यति // 2 // कुमन्त्रैः पच्यते राजा, फलं कालेन पच्यते / लङ्घनैः पच्यते पापः, पापी पापेन पच्यते // 3 // दुष्कृतं सुकृतबुद्धया, कृतमप्यसुखं दिशेत् / पुष्पदामधिया स्पृष्टो, न किं दशति पन्नगः // 4 // मलमइला पंकमइला धूलिमइला न ते नरा मइला / जे पावपंकमइला, ते मइला जीवलोगंमि // 5 //