________________ 158 सुभाषितसूक्तरत्नमाला तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा, स्वस्थास्तिष्ठत दैवमेव हि नृणां दुःखे सुखे कारणम् // 5 // छित्या पाशमपास्य कूटरचनां भऋत्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापजटिलाद् निर्गत्य दूरं वनात् / व्याधानां शरगोचराण्यतिजवे नोल्लङ्घ्य धावन्मृगः, कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् // 6 // कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः। वसिष्ठदत्तलग्नोऽपि, रामः प्रबजितो वने // 7 // सेवितोऽपि चिरं स्वाभी, विना पुण्यं न तुष्यति / भानोराजन्मभक्तोऽपि, पश्य निश्चरणोऽरुणः // 8 // प्राप्तव्यमर्थं लभते मनुष्यो, दैवो न तल्लङ्घयितुं समर्थः। तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् // समीहितं यन्न लसामहे वयं, प्रभो ! न दोषस्तव कर्मणो मम। दिवाऽप्युलको यदि नावलोकते, तदा स दोपः कथमंशुमालिनः।। पदे पदे हि रत्नानि, योजने रसकूपिका। भाग्यहीना न पश्यन्ति, बहुरत्ना वसुन्धरा // 11 // सर्वत्र वायसाः कृष्णाः, सर्वत्र हरिताः शुकाः / सर्वत्र मुखिनां सौख्यं, दुःखं सर्वत्र दु:खिनाम् // 12 // नाऽपत्यानि न वित्तानि, न सौधानि भवन्त्यहो / मृत्युना नीयमानस्य, पुण्यपापे परं पुरः / / 13 //