________________ 152 सुभाषितसूक्तरत्नमाला पावं न तिव्वभावा, कुणइ न बहुमन्नई भवं घोरं / . उचियठिई च सेवइ, सव्वत्थ वि अपुणवंधो त्ति // 13 // कर्म विपाकनी दुर्धरता स्नेहादाश्लिश्य शक्रेणा- सनेऽध्यास्यते स्म यः। श्रेणिक: सोप्यशरणोऽ-श्रोतव्यां प्राप तां दशाम् // 14 // पूर्वकर्मपरिपाकः, कल्पार्णव इवापतन् / शक्रचक्रयर्द्ध-चक्रयाद्यै-रपि शक्यो न लक्षितुम् // 15 // "परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् // " शक्रेणापन्निषेधार्थ, यः सिद्धार्थों न्ययुज्यत / गोशालोत्तरवेलायां, जजम्भे सोऽपि नान्यदा // 16 // यत्पादान्ते किङ्करन्ति, लुठन्ति च मुहुर्मुहुः / सुरेन्द्रास्तेपि हा सर्वे, तत्पीडायामुदासते // 17 // यन्नाममन्त्रमात्रेण, द्रवन्ति दुरुपद्रवाः। सोप्युपद्यते क्षुद्रः, कस्य पूत्कूर्म हे पुरः // 18 // धिक सुकृतानि जगतो, यैः स्वामिप्रभवैरपि / . कृतघ्नैः विघ्ननिम्नात्मा, स्वामी त्राता न दुर्विधैः / / 19 / / "कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि // श्लोकाः // " दैवाधीनं वृथा कार्य विधातुं शक्नुवन्ति के / कर्मत एव सङ्गोऽभूभाविनीकर्म रेखयोः // 20 // शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः / स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च // 21 //