________________ 153 पुण्यसूक्तानि उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, राग-द्वेष-कषायसन्ततिमहान्निविघ्नबीजस्त्वया / रोगैरङ्कुरितो विपत्कुसुमित: कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः // 22 // पुनरपि सहनीयो दुर्विपाकस्त्वयाऽयं, न खलु भवति नाशः कर्मणां सञ्चितानाम् / इति सह गणयित्वा यद्यदायाति सम्यक्, सदसदिति विवेको मानवानां कुतस्त्यः // 23 // युग्मम् / / पूर्वजन्मनि कस्यापि, कलङ्कः कोऽपि निर्ममे / अधुना तत्फलं प्राप्तं, परिपाकेन सुन्दरम् // 24 // ___50 पुण्यसूक्तानि वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमं स्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि // 1 // रम्येषु वस्तुषु मनोहरतां गतेषु, रे! चित्त ! खेदमुपयासि किमत्र चित्रम् / पुण्यं कुरुष्व यदि तेषु तवास्ति वाच्छा, पुण्यं विना न हि भवन्ति समीहितार्था // 2 // चेद् वाञ्छसीदमवितुं परलोकदुःखभीत्या ततो न कुरुषे किनु पुण्यमेव /