________________ 148 सुभाषितसूक्तरत्नमाला आढयं निःस्वं नृपं रङ्क, झं मूर्ख सज्जनं खलम् / निर्विशेषेण संहर्तु, समवर्ती प्रवर्तते // 16 // यत्र तत्र च वा यातु, यद्वा तद्वा करोत्वसौ / तथाऽपि मुच्यते प्राणी, न पूर्वकृतकर्मणा // 17 // याति दूरमसौ जीवो-ऽपायस्थानाद्भयद्रुतः / तत्रैवाऽऽनीयते भूयो-ऽभिनवप्रौढकर्मणा // 18 // दैवे वक्रे भवेत्पुंसां, सुकृतं दुष्कृतोपमम् / न सिध्यन्ति स्वकार्याणि, विधिना रचितान्यपि // 19 // गोभद्रो जनको यस्या, भद्रा यस्या जनन्यहो ! / शालिभद्रानुजा सेयं, शीर्षे वहति मृत्तिकाम् // 20 // क्व हरिश्चन्द्रः क्वाऽन्त्यजदास्यं, क्व च पृथासूनुः क्व च नटलास्यम् / क्व च वनकष्टं क्वाऽसौ रामः, कटरे विकटो विधिपरिणामः // 21 // उद्यम कुर्वतों पुंसां, फलं पुण्यानुसारतः। समुद्रमथनाल्लेभे, हरिलक्ष्मी हरो विषम् // 22 // रक्ष्यते तपसा नैव, न देवनं च दानवैः। नीयते वटशाखायां, कर्मणाऽसौ महाबलः // 23 // अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा / तणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन भृशाक्शात्मना॥