________________ 146 सुभाषितसूक्तरत्नमाला हरिश्चन्द्रो राजा वहति सलिलं प्रेतसदने,. अवस्थानेकाहोऽप्यहह ! विषमाः कर्मगतय: // 3 // धनानि तिष्ठन्ति गृहेषु नार्यो विश्रामभूमौ स्वजनाः श्मशाने / देहं चितायां परलोकमार्गे कर्मानुगो याति स एकजीवः // 4 // वैद्या वदन्ति कफपित्तमरुद्विकारं, नैमित्तिका ग्रहकृतं प्रबदन्ति दोषम् / भूतोपसर्गमथ मन्त्रविदो वदन्ति, कर्मैव शुद्धमतयो यतयो गृणन्ति // 5 // यच्चिन्तितं तदिह दृरतरं प्रयाति, यच्चेतसा न गणितं तदिहाभ्युपैति / प्रातर्भवामि वसुधाधिपचक्रवर्ती, . सोऽहं व्रजामि विपिने जटिलस्तपस्वी॥६॥ पुण्याऽपुण्यचयेन बुद्धिरमला स्यात् कम्मलाऽप्यङ्गिनां, वातेनैव युगन्धरी सदसता मुक्काफलाऽङ्गारभाः। लङ्केशो नलकूबरप्रियतमा नाम्नोपरम्भा रतामत्याक्षीदरतां च रामवनितां सीतां जहाराशु यत् // 7 // हरो वरो ब्रह्मविवाहकर्ता विश्वानलश्चाहुतिदायकश्च / तथाऽपि वन्ध्या गिरिराजपुत्री न कर्मणः कोऽपि बली समर्थः॥ कुमुदवनमपथि श्रीमदम्भोजखण्डं, त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः। ....