________________ महाव्रतानां भावनासूक्तानि “प्रादुर्भवेद्यथाभ्यास, संस्कारो हि भवान्तरे।" श्लोकाः भृशाभ्यासेऽपि संस्कारा, धाः प्रेत्य न यान्त्यपि / मन्दा अमन्दास्त्वितरे, यान्त्येवाग्रेसरा इव // 29 // 46 महावतानां भावनासूक्तानि मनोगुप्त्येषणादाने-ाभिः समितिभिः सदा / द्रष्टान्नपानग्रहणे-नाहिंसां भावयेत्सुधीः // 1 // हास्यलोभभयक्रोध-प्रत्याख्यानै निरन्तरम् / आलोच्य भाषणेनाऽपि, भावयेत् सुनृतव्रतम् // 2 // आलोच्यावग्रहयाश्चा-भीक्ष्णावग्रहयाचनम् / एतावन्मात्रमेवैत-दित्यवग्रहधारणम् // 3 // समानधार्मिकेभ्यश्च,-तथावग्रहयाचनम् / अनुज्ञापितपानान्ना-शनमस्तेयभावना // 4 // स्त्रीपण्डपशुमद्वेश्मा--सनकुडचान्तरोज्झनात् / सरागस्त्रीकथात्यागाद, प्राक्कृतस्मृतिवर्जनात् // 5 // स्त्रीरम्या समस्याङ्ग--संस्कारपरिवर्जनात् / प्रणीतात्यशनत्यानाद, ब्रह्मचर्य तु भावयेत् // 6 // स्पर्श रसे च गन्धे च, रूपे शब्दे च हारिणि / पञ्चस्वितीन्द्रियार्थेषु, गाढं गाय॑स्य वर्जनम् // 7 //