________________ संसारभावनासूक्तानि 125 दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भवासे नराणां, बाल्यत्वे चापि दुःखं मललुलितवपुःस्त्रीपयःपानमिश्रम् / तारुण्ये चापि दुःखं विरहदहनजं वृद्धभावोऽप्यसारः, संसारे रे ! मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किश्चित् // यावदेहमिदं गदैर्न मुदितं नो वा जराजर्जर, यावत्त्वक्षकदम्बकं स्वविषयज्ञानावगाहक्षमम् / / यावच्चायुरभङ्गुरं निजहिते तावबुधैर्यत्यतां, कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ? // 3 // श्रियो विद्युल्लोला कतिपयदिनं यौवनधनं, .. सुखं दुःखाघातं वपुरनियतं व्याधिविधुरम् / दुरापाः सत्पत्न्यो बहुभिः किमथवा प्रलपितैः, असारः संसारस्तदिह निपुणं जागृत जनाः ! // 4 // यः पिता स भवेत्पुत्रो, यः पुत्रः स भवेत् पिता / या कान्ता सा भवेन्माता, या माता साऽपि सा भवेत् // 5 // का तव कान्ता कस्ते पुत्रः, संसारोऽयमतीव विचित्रः। कस्य त्वं वा कुत आयात-स्तत्त्वं चिन्तय तदिदं भ्रातः ! // 6 // : वृद्धस्य मृतभार्यस्य, पुत्राधीनधनस्य च / स्नुषावाक्येन दग्धस्य, जीवितान्मरणं वरम् // 7 // अत्र द्रोणशतं दग्धं, पाण्डवानां शतत्रयम् / दुर्योधनसहस्रं च, कर्णसंख्या न विद्यते // 8 //