________________ अशरणभावनासूक्तानि 123 35 अशरणभावनासूक्तानि संसारभावण्णु परस्स अट्ठा, साहारणं जं च करेइ कम्मं / कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उविति // 1 // धिर धिग बलं परिजनं स्वजनं धिगस्तु, धिन वैभवं विषयसौख्यमहो धिगेतत् / यज्जन्तुरत्रनिजकर्मवशः क्षणेन, सर्व विहाय परलोकमयं प्रयाति // 2 // रामे प्रव्रजनं बलेनियमनं पाण्डोः सुतानां वनं, वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् / कारागारनिषेवणं च मरगं संचिन्त्य लङ्केश्वरे, सर्व कालवशादवाप्स्यति जनः कः कं परित्रायते ? // 3 // मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः; सेतुर्यन महोदधौ विरचितो काऽसौ दशास्वान्तकः / अन्ये चाऽपि युधिष्ठिरप्रभृतयो दिवं गता भूपते !, नकेनाऽपि समं गता वसुमती मन्ये त्वया यास्यति // 4 // आवासं परिमाष्टिं वायु ऋतवः पुष्पोत्करं तन्वते, कीनाशो महिषेण वारि वहते ब्रह्मा पुरोधाः पुरः। खवायां च नियन्त्रिता ग्रहततिनिर्णेजकः पावकचामुण्डा तलरक्षिका गणपतिः शुक्रीवतीचारकः॥५॥