________________ 120 सुभाषितसूक्तरत्नमाला कालो न यातो वयमेव याता, भोगा न भुक्ता वयमेव भुक्ताः। तृष्णा न जीर्णा वयमेव जीर्णाः, तपो न तप्तं वयमेव तप्ताः॥ चला विभूतिः क्षणभङ्गि यौवनं, कृतान्तदन्तान्तर्वति जीवितम् / तथाऽप्यवज्ञा परलोकसाधने प्हहो ! नृणां विस्मयकारि चेष्टितम् // 14 // आयुर्वारितरङ्गभङ्गुरतरं श्रीस्तूलतुल्यस्थितिः, तारुण्यं करिकर्णचञ्चलतरं स्वप्नोपमाः सङ्गमाः। यच्चान्यद्रमणीमणिप्रभृतिकं वस्त्वस्ति तच्चास्थिरं, विज्ञायेति विधीयतामयमतो धर्मः सदा शाश्वतः // 15 // यदुपतेः क्व गता मथुरापुरी, रघुपतेः,क गतोत्तरकोशला / इति विचिन्त्य कुरु स्वमनः स्थिरं, जगदिदं न सदित्यवधारय / अवश्यं यान्ति यास्यन्ति, पुत्रस्त्रीधनवान्धवाः / शरीराणि तदेतेषां, कृते किं खिद्यते वृथा // 17 // भवं दुःखालयं विद्धि, संगमं स्वप्नसन्निभम् / लक्ष्मी विद्युल्लतालोलां जीवितं बुबुदोपमम् // 18 // स्वशरीरशरीरिणावपि, श्रुतसंयोगविपर्ययौ यदा / विरहः किमिवाऽनुतापयेद्, वद बायै विषयविपश्चिताम् // 19 // यथा काष्ठं च काष्ठं च, समेयातां महोदधौ / समेत्य च व्यपेयातां, तद्वद्भूतसमागमः // 20 //