________________ 119 / अनित्यभावसूक्तानि आपद्गतं हससि किं द्रविणान्धमूढ !, लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् / एतान् न पश्यसि घटान् जलयन्त्रचक्रे, रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः॥८॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वानुदेष्यति हसिष्यति पङ्कजं च / इत्थं विचिन्तयति कोषगते द्विरेफे, हा ! हन्त हन्त नलिनी गज उज्जहार // 9 // चेतोहरा युवतयः स्वजनोऽनुकूल:, सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः। वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, संमीलने नयनयोन हि किश्चिदस्ति // 10 // गगननगरकल्पं संगम वल्लमानां, जलदपटलतुल्य यौवनं वा धनं वा / स्वजनसुतशरीरादीनि विद्युच्चलानि, क्षणिकमिति समस्तं विद्धि संसारवृत्तं // 11 // अम्भोधीनपि शोषयन्ति चतुरो येऽनन्तवीर्यान्विता, ये मेरुन् दलयन्ति वज्रकठिनैमुष्टिप्रहारैरपि / दण्डीकृत्य सुराचलं वसुमतिं छत्राकृतिं कुर्वते, तावत्तेऽपि जनाः कृतान्तवदने कालेन सर्वे गताः // 12 //