________________ सुभाषितसूक्तरत्नमाला स्याद्वादसिद्धिनो नमुनो गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् / द्वयात्मनि न दोषोऽस्ति, गुडनागरभेषजे // 18 // 34 अनित्यभावसूक्तानि अकस्मात्संगतो यश्च, यद्यकस्माद्विनश्यति / शोकः किं तत्र जन्तूनां, सततं हि गतागतम् // 1 // न वियोगे (तु) संतापः, कार्यः किल विवेकिभिः / अभावानुभवे भावा, भवे हि क्षणभङ्गिनः // 2 // ते जनास्ते प्रभावाश्च, ताश्च प्रज्वलिताः श्रियः / हेलया किल कालेन, प्रापिता: स्मृतिशेषताम् // 3 / मुहूर्तमपि जन्तूनां, कालोऽयं कलिताखिलः / सार्थः सुदूरगामीव, नार्थितोऽपि विलम्बते // 4 // क्षणार्धमपि कार्येषु, न विलम्बेत पण्डितः। न जानीमः कदा कस्मिन् , कृतान्तो निपतिष्यति / / 5 / / अहो नु मोहमुग्धस्य, लोकस्येयं प्रमादिता / यद्धालं मृतमालोक्य, वृद्धस्तिष्ठति निर्भयः // 6 // आकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानां, संबन्धश्चैकवृक्षोषितबहुविहगव्यूहसाङ्गत्यतुल्यः / प्रत्यावृत्तिर्मुतस्योपलतलनिहितप्लृष्टबीजप्ररोहप्राया प्राप्येत शोकात् तदयमकुशलैः क्लेशमात्मा मुधैव // 7 //