________________ 116 सुभाषितसूक्तरत्नमाला क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवाछिपीठे लुठनं सुरेशितुः इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमपाकरिष्यते // 2 // परःसहस्राः शरदः तपांसि, युगान्तरं योगमुपासतां च / तथाऽपि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्षम्। इमां समक्ष प्रतिपक्षसाक्षिणा-मुदारघोषामवघोषणां ब्रवे / न वीतरागात् परमस्ति दैवतं, न चाप्यनेकान्तमृते नयस्थितिः॥ त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः / विषेण तुल्यं पीयूष, तेषां हन्त हतात्मनाम् // 5 // नेत्रनिरीक्ष्य बिलकण्टककीटसर्पान् , सम्यक्पथा व्रजत तान् परिहत्य सर्वान् / कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् , सम्यग् विचारयत कोऽत्र परापवादः॥६॥ हिंसाद्यसत्कर्मपथोपदेशा-दसर्वविन्मूलतया प्रवृत्तेः / नृशंसदुर्बुद्धिपरिग्रहाच्च, बेमस्त्वदन्यागममप्रमाणम् // 7 // हितोपदेशात् सकलज्ञक्लुप्तेः, मुमुक्षुसत्साधुपरिग्रहाच्च / पूर्वापरार्थेऽप्यविरोधसिद्धे-स्त्वदागमा एव सतां प्रमाणत् // 8 // सर्वज्ञनी वाणी कयांय पण हणाय नहीं ___ " स्याद्वादवादिनी वाणी, न क्वचित्प्रतिहन्यते।" मतिनीमंदताथी वीतरागर्नु कोई वचन न समजाय तो पण . ते असत्य छे तेम न विचार कुत्रापि मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि / ज्ञेयगहनत्वेन च, ज्ञानावरणोदयेन च // 9 //