________________ जिनपूजासूक्तानि 107. विपुलमञ्जुलमङ्गलकारणं, दुरितसंततितापनिवारणम् / जनितविश्वमनोरथपूरणं, कुरुत भव्यजना जिनपूजनम् // 28 // आयुष्कं यदि सागरोपममितं व्याधिव्यथावर्जितं, पाण्डित्यश्च समस्तवस्तुविषयं प्राविण्यलब्धास्पदम् / जिह्वा कोटिमिता च पाटवयुता स्याम्पे धरित्रीतले, नो शक्नोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् // 29 // दौस्थ्यदुर्गतिदुःखादि, नार्हदर्चाकृतां भवेत् / धमश्च जायते स्वर्गा-पवर्गसुखदायकः // 30 // ये तवाष्टविधां पूजां, कुर्वन्ति परमेश्वर ! / अष्टापि सिद्धयस्तेषां, करस्था अणिमादयः // 31 // द्रव्य पूजा करतां भावपूजा अधिक छे जिनाचा हि द्रव्यपूजा, भावपूजा तु संयमः। द्रव्यपूजाकृतो भाव-पूजाकृच्चाधिको मतः // 32 // पूजा करतां केवां वस्त्र पहेरवां जोईए न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप ! / न दग्धं न तु वै च्छिन्नं, परस्य तु न धारयेत् // 33 // किटस्पृष्टं तु यद्वस्त्रं, पुरीपं येन कारितम् / मूत्रं मैथुनं चापि, तद्वस्त्रं परिवर्जयेत् // 34 // खण्डितं सन्धितं छिन्नं, रक्तं रौद्रैः कुवर्णकैः / दानं पूजा तपो होम-सन्ध्यादिनिष्फलं भवेत् / / 35 / /