________________ 106 सुभाषितसूक्तरत्नमाला साधुओ पण जैनशासननी प्रभावना माटे पूजा करावे पूजा प्रभावनाहेतुः, कार्यते संयतैरपि / दिव्यैः पुष्पैः सुरानीतः, श्रीवज्रस्वामिना यथा // 21 // श्रीजिन पूजानुं फळ नौरेषा भववारिधौ शिवपदप्रासादनिःश्रेणिका, मार्गः स्वर्गपुरस्य दुर्गतिपुरद्वारप्रवेशार्गला / कर्मग्रन्थशिलोच्चयस्य दलने दम्भोलिधारासमा, कल्याणैकनिकेतनं निगदिता(मूर्तिः)पूजा जिनानां परा // 22 // यस्त्वं नाथ ! नवन्दितो न च जिनः सम्पूजित: पूजनैः, सद्भक्त्या न च संस्तुतस्तव गुणग्रामोऽभिरामः सदा / न ध्यातः परमेश्वरः शिवगतः सद्ध्यानयोगैर्न हि, तैनूनं विफलीकृतो निजभवोऽरण्ये यथा मालती // 23 // जिनेन्द्रपूजनाध्यान-मपि स्वर्गापवर्गदम् / स्थविराया इव भवे-द्रव्यानां भावयोगतः // 24 // जिनार्चाकारकाणां न, कुजन्म कुगतिर्न च / न दारिद्रयं न दौर्भाग्यं, न चान्यदपि कुत्सितम् / / 25 // दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यभर्ती, पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकीं // 26 // असर्वभावेन यदृच्छया वा, परानुवृत्त्या विचिकित्सया वा। ये त्वां नमस्यन्ति जिनेन्द्रचन्द्र, तेऽप्यामरी सम्पदमाप्नुवन्ति / /