________________ सुभाषितसूक्तरत्नमाला तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो ! भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति नो // 16 // दृष्ट्वा कोऽपि हि कच्छपो हृदमुखे सेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तद्रष्टुं समानीतवान् / सेवाले मिलिते कदाऽपि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो // 17 // शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमाम्भोधौ दुर्धरवीचिभिश्च सुचिरात् संयोजितं तवयम् / / सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं क्वाऽपि चेद्, भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति नो // 18 // चूर्णीकृत्य पराक्रमान् मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिकासमीरवशतः क्षिप्त्वा रजो दिक्षु चेत् / स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात्स चेत्पूर्ववद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो // 19 // दुष्प्रापं मकराकरे करतलाद्रत्नं निमग्नं यथा, संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् / भ्रातर! पश्य विमूढतां मम हहा नीतं यदेतन्मुधा, कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः // 20 // देवा विसयपसत्ता, नेरइया विविहदुक्खसंतत्ता / तिरिया विवेकविकला, मणुआणं धम्मसामग्गी // 21 //