________________ नरजन्मश्रेष्ठता-दुर्लभतयोः सूक्तानि साम्राज्यं जनकात्सुतः स लभते स्याच्चेदिदं दुर्घट, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो // 11 // वृद्धा काऽपि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं, पिण्डीकृत्य च तत्र सर्षपकणान् क्षिप्त्वाढकेनोन्मितान् / प्रत्येकं हि पृथक्करोति किल सा सर्वाणि चान्नानि चेद, भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति नो // 12 // सिद्धयतकलावलाद् धनिजनं जित्वाऽथ हेम्नां भरैः, चाणाक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया / देवादाढ्यजनेन तेन स पुनर्जीयेत मन्त्री क्वचिद् / भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो // 13 // रत्नान्याढ्यमुतै वितीय वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः / लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत क्वचिद्, भ्रष्टो मयंभवात्तथाप्यमुकृती भूयस्तमाप्नोति नो // 14 // स्वप्ने काटिकन रात्रिविगमे श्रीमृलदेवेन च, प्रेक्ष्येन्दु सकलं कुनिर्णयवशादल्पं फलं प्राप्य च / स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचिद, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो // 15 // राधाया बदनादधः क्रमवशाचक्राणि चत्वार्यपि, माम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः /