________________ सुभाषितसूक्तरत्नमाला आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् , आदीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः ? // 5 // स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्येन्धभारम् / चिन्तारत्नं विकिरति कराद् वायसोड्डायनार्थ, यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः // 6 // ते धत्तरतरं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं, चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः / विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं, ये लब्धं परिहृत्य धर्ममधमा धांवन्ति भोगाशया // 7 // यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः / क्लेशप्रवधेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात्॥८॥ चूल्लगपासगधन्ने, जुए रयणे अ मुविणचक्के अ / कुम्मजूगे परमाणु, दस दिळंता मणुअजम्में // 9 // विप्रः प्रार्थितवान् प्रसन्नमनस: श्रीब्रह्मदत्तात्पुरा, क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय / इत्यं लब्धवरोऽथ तेष्वपि कदाप्यश्नात्यहो ! द्विः स चेद, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमानोति नो // 10 // स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं, कोणानां शतमेषु तानपि जयन् द्यूतेऽथ तत्संख्यया /