________________ नरजन्मश्रेष्ठता-दुर्लभतयोःसूक्तानि गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिव्रजं, स्मृत्वा पश्चनमस्कृतिं कुरु करक्रोडस्थमिष्टं सुखम् // 21 // वाणी रसवती यस्य, भार्या पुत्रवती सती / लक्ष्मी दानवती यस्य, सफलं तस्य जीवितम् // 22 // 24 नरजन्मश्रेष्ठता-दुर्लभतयोः सूक्तानि नरेषु चक्री त्रिदशेषु वज्री, मृगेषु सिंहः प्रशमो व्रतेषु / मतो महीभृत्यु सुवर्णशैलो, भवेषु मानुष्यभवः प्रधानः // 1 // निर्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारुकामजसुखं कि सेवितुं युज्यते ? / वैडूर्यादि महोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमचारुकाचशकलं किं चोचितं साम्प्रतम् // 2 // अवाप्य धर्गावसरे विवेकी. कुर्याद्विलम्ब न हि विस्तराय / यतो जिनस्तक्षशिलाधिपेन, रात्रि व्यतिक्रम्य पुनर्न नेमे // 3 // आएर्व शितं नृणां परिमितं राव्या तदधींकृतं, तस्यास्य कदाचिदर्द्धमधिकं वार्धक्यवाल्ये गतम् / शेषं रोगवियोगशोकमदनक्रोधादिभिर्व्याकुलस्यायुर्याति नरस्य तत्र कतमो यो धर्मकर्मक्षणः // 4 // यांवत्स्वस्थमिद कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः /