________________ सुभाषितसूक्तरत्नमाला धर्मात् श्राद्धशिरोमणिर्मदविषध्वंसान मणिभौगिनः, एकोऽनेकमयो गुणैर्नवनवैः श्रीकर्मराजः सुधीः // 15 // कयवयकम्मो तह सीलवं च गुणवं च उज्जुववहारी / गुरुसुस्सूसो पवयण-कुसलो खलु भावओ सड्ढो // 16 // भक्तिस्तीर्थकरो गुरे जिनमते श्रद्धालुता शासने, शुश्रूषा मुनिपुङ्गवे सुविहिते दानप्रवृत्ति: सदा / वात्सल्यं सहधर्मचारिषु दया भूतेषु सर्वेष्वहो, मन्ये श्रावकधर्मवर्तिनि जने पर्याप्तकल्पो विधिः // 17 // अन्नन्नदेसजाया, अन्नन्नहारवढियसरीरा / जिणसासणपरन्ना, सव्वे ते बन्धवा भणिया // 18 // पूजामाचरतां जगत्त्ररपतेः सङ्घार्चनं कुर्वतां, तीर्थानामभिवन्दनं विदधतां जैनं वचः श्रृण्वताम् / सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृतां, येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् // 19 // निद्रान्ते परमेष्टिसंस्मृतिरथो देशर्चने व्यापृतिः, साधुभ्यः प्रणतिः प्रमादविरति: सिद्धान्ततत्त्वश्रुतिः / सर्वस्योपकृतिः शुचिव्यवहृतिः सत्पात्रदाने रतिः, श्रेयोनिमलधर्मकर्मनिरतिः श्लाघ्या नराणां स्थितिः // 20 // कृत्वाहत्पदपूजनं यतिजनं नत्वा विदित्वागम, हत्वा सङ्गमऽधर्मकर्मठधियां पात्रेषु दत्वा धनम् /