________________ श्रीवीतरागशासनाराधनासूक्तानि असहायसहायेभ्यः, साधुभ्योऽस्तु नमो नमः / चारित्रयानपात्रे ये, दधते कर्णधारताम् // 45 // बाह्याभ्यन्तरमुपधि, धर्मस्यानुपकारकम् / सावद्ययोगविरत-स्त्रिविधं व्युत्सृजाम्यहम् / / 46 / / चतुष्प्रकारमाहारं, प्रत्याख्यामि समाधिना / चरमोच्छ्वासवेलायां, तनूमेतां त्यजामि च // 47 // दंडसुलहमि लोए, मा अमइं कुणसु दंडिओ म्हि त्ति / एस दुलहो हुदंडो, भवदंडनिवारणो जीव ! 48 / / नानाशास्त्रमुभापितामृतरसैः श्रोत्रोत्सवं कुर्वतां, येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् / तेषां जन्म च जीवितं च सफलं तैरेव भभूषिता, शेषैः किं पशुवद्विवेकरहितै भारभूतैर्नरैः // 49 // जे मे जाणंति जिणा, अबराहा जेसु जेसु ठाणेसु / ते हं आलोएमि, उवढिओ सव्वभावेण // 50 // सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः। अस्मिन्नपारसंसारे, सारं आत्महितं कुरु // 51 // अहिंसा प्रथमं पुष्पं, पुष्पमिन्द्रियनिग्रहः। सर्वभूतदया पुष्पं, क्षमा पुष्पं विशेषतः // 52 // ध्यानं पुष्पं तपः पुष्पं, ज्ञानं पुष्पं तु सप्तमम् / सत्यं चैवाष्टमं पुष्पं, तेन तुष्यन्ति देवताः // 53 //