________________ सुभाषितसूक्तरत्नमाला आलोचनां व्रतोच्चारं, क्षामणां पापगर्हणाम् / चतुर्णी शरणं भक्त्या, चतुर्धाऽनशनं व्यधात् // 54 // ____21 आत्मजागृतिसूक्तानि जेसिं अवड्ढपोग्गल-परियट्टो सेसओ उ संसारो / ते सुकपक्खिया खलु, अहिए पुण किण्हपक्खिआ॥१॥ विषयकषायावेश-स्तत्त्वाश्रद्धा गुणेषु च द्वेषः। आत्माज्ञानं च यदा, बाह्यात्मा स्यात् तदा व्यक्तः॥२॥ तत्त्वश्रद्धा ज्ञानं, महाव्रतान्यप्रमादपरता च / मोहजयश्च यदि स्यात् , तदान्तरात्मा भवेद् व्यक्तः // 3 // ज्ञानं केवलसंज्ञ, योगनिरोधः समग्रकर्महतिः। सिद्धिनिवासश्च यदा, परमात्मा स्यात् तदा व्यक्तः॥४॥ आत्मानदी संयमतोयपूर्णा, सत्यावहा शीलतटा दयोमिः। तत्राभिषेकं कुरु पाण्डुपुत्र !, न वारिणाशुध्यति चान्तरात्मा // या निशा सर्वभूतानां, तस्यां जागति संयमी। यस्यां जाग्रति भूतानि, सा निशा पश्यतो मुनेः // 6 // बालस्तावत्क्रीडा-सत स्तरुणस्तावत्तरुणीरक्तः। वृद्धस्तावञ्चिन्ता-मग्नो न परब्रह्मणि कोऽपि तु लग्नः // 7 // 'धनार्थिनां यथा नास्ति, शीततापादिदुस्सहम् / तथा भवविरक्तानां तत्त्वज्ञानार्थिनामपि // 8 //