________________ 74 सुभाषितसूक्तरत्नमाला वपुरन्यदिदं जीवा-दन्यद्धान्यधनादिकम / जीवोऽन्यः पुनरेतेभ्यः, कथं मुह्यन्ति बालिशाः ? // 35 // वसाशोणितविण्मूत्र-यकृन्मांसाऽस्थिसंभृते / / अशुचिप्रचिते देहे, को हि मुह्यति कोविदः ? // 36 // अवक्रयकुटीतुल्यं, यत्नालालितपालितम् / अचिरादपि मोक्तव्यं, विनश्वरमिदं वपुः // 37 // धीरस्य कातरस्यापि, मृत्युरेत्येव देहिनः / तन्म्रियेत तथा धीमान्, न म्रियेत यथा पुनः // 38 // अर्हन्तो निखिलाः सिद्धाः, साधवः स्वगुणोन्नता: / अर्हद्धर्मश्च शरणं, भवन्त्वशरणस्य मे // 39 // साधवो बान्धवा: सर्वे, धर्मः स्वामी गुरुः पिता / नात्मीयं मे परं किञ्चित् , कर्मबन्धनिबन्धनम् // 40 // सद्भयोऽथ भूत-भाविभ्य-स्तरण्डेभ्यो भवार्णवे / शाश्वतेभ्यश्च मे शश्व-दर्हद्भयोऽस्तु नमो नमः // 41 // कर्मकक्षे क्षणायेषां, ध्यानेन दहनायितम् / तेभ्यो भवतु सिद्धेभ्य-स्त्रिविधेन नमो नमः // 42 // पञ्चधाऽऽचारधारिभ्यो, भानुभ्यः शासनेऽर्हताम् / कृतभव्याब्जबोधेभ्य, आचार्येभ्यो नमो नमः // 43 // एत्याऽन्तेवासिना नित्यं, येभ्यः सूत्रमधीयते / उपाध्यायपदस्थेभ्य-स्तेभ्यो मेऽस्तु नमो नमः॥४४॥