________________ सुभाषितसूक्तरत्नमाला एतत्कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विदः, तद्वाक्याननुवर्तिनो हसति यत् सावज्ञमज्ञानिव // 9 // किमतोऽपि महापाप-मज्ञानात् पातुकः स्वयम् / पातयन्नन्धकूपे यद् , मूढः सहचरानपि // 10 // उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपि / नोपकरोति यथान्धे, तथोपदेशस्तमोन्धानाम् // 11 // अमेध्यमश्नाति विवेकशून्या, स्वनन्दनं कामयतेऽत्तिसक्ता / खुराग्रश्रविनिहन्ति जन्तून , . गौर्वन्द्यते केन गुणेन राजन् // 12 // स्थानं तीर्थषिदेवानां, सर्वेषामपि गौर्यदि / विक्रीयते दुह्यते च, हन्यते च ततः कथम् // 13 // पयःप्रदानसामर्थ्या-द्वन्या चेन्महिषी न किम् / विशेषो दृश्यते नास्या, महिषीतो मनागपि // 14 // जस्सवि अ दुप्पणिहिआ, होति कसाया तवं चरंतस्स / सो बालतबस्सीविव, गयाहागपरिस्समं कुणइ // 15 // वृत्तिः-यस्यापि कस्यचिद् व्यवहारतपस्विनस्तपश्चरतस्तपः कुर्वतः क्रोधादिकषाया अनिरूद्धा भवन्ति, स बालतपस्वीव उपवा-सपारणकप्रभूततरारम्भको जीवो गजस्नानपरिश्रम करोति, चतुर्थषष्ठादिनिमित्ताभिधानतः प्रभूतकर्मबन्धोत्पत्तेः॥