________________ महानसूक्तानि 65 स्वायत्तमेकान्तगुणं विधात्रा, विनिर्मितं छादनमज्ञतायाः। विशेषतः सर्वविदां समाजे, विभूषणं मौनमपण्डितानाम् // 2 // अल्पज्ञानेन नो शान्ति, याति दृप्तात्मनां मनः / स्तोकवृष्टया यतस्तप्त-भूमिरूष्मायतेतराम् // 3 // पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् / आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः // 4 // अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना / उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते // 5 // हत्थागया इमे कामा, कालिया ते अणागया / को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो // 6 // बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च / तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति // 7 // मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहणे। द्राक्षाखण्डः शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः // 8 // कष्टं नष्टदृशां नृणां यददृशां जात्यन्धवैदेशिका, कान्तारे प्रदिशत्यभीप्सितपुरावानं किलोत्कन्धरः।