________________ सुभाषितसूकारत्नमाला मिथ्याज्ञानं समस्तं तदिहलोकोपयोपि यत् / रागद्वेषादयो यस्मात् , प्रवर्धन्ते शरीरिणाम् // 13 // सर्वज्ञेन जिनेनाप्तेनाऽऽगमो भणितोत्र यः। सम्यग्ज्ञानं भवेत् तच्च, परलोकैकसाधनम् // 14 // अनार्यदेशे विज्ञानं, जानन्ति विविधं जनाः। ज्ञानं तत्रैव यत्र त्वं, हेयाऽऽदेयप्ररूपकः // 15 // आग्रही बत निनीपति युक्ति, तत्र यत्र मतिरस्य निविष्टा / पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् // 16 // विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः // 17 // वरं हि सप्पो गहिउं, मा कुगुरुसेवणं भई / / सप्पो इक्कं मरणं, कुगुरू (कुणइ) अणंताई मरणाई // 18 // जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहि / तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं // 19 // यतः पूर्व श्रुतज्ञानं संयमश्च ततः परः / [ श्लोकार्धम् ] .18 अज्ञानसूक्तानि माता वैरी पिता शत्रुमैन बाला न पाश्रिताः। सभामध्ये न सोमन्ते, इंसमध्ये का. यथा // 1 // ...