________________ सुभाषितसूतरत्नमाला पतौ प्रव्रजिते क्लीबे, प्रणष्टे पतिते मृते। .. पञ्चस्वापत्सु नारीणां, पतिरन्यो विधियते // 23 / / 17 सम्यग्ज्ञानसूक्तानि भवविटपिसमूलोन्मूलने मत्तदन्ती, जडिमतिमिरनाशे पद्मिनीप्राणनाथः / नयनमपरमेतद् विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव // 1 // ज्ञानं कर्ममहीध्रभेदकुलिशं शंसन्ति मोहापहं, ज्ञानं भूषणमङ्गिनां वरधनं ज्ञानं जगद्दीपनम् / एतत्तत्त्वमतत्त्वमेतदपरं ज्ञानेन विज्ञायते, लोकालोकविलोकनकपटवः स्युर्ज्ञानदानाज्जिनाः॥२॥ आरोग्य-बुद्धि-विनयोद्यम-शास्त्ररागाः, पश्चाऽऽन्तराः पठनवृद्धिकरा भवन्ति / आचार्य-पुस्तक-निवास-सहाय-भोज्याः, बाह्याश्च पञ्च पठनं परिवर्द्धयन्ति // 3 // शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः // 4 // ताल्वादिजन्मा ननु वर्णवर्गों, . 1- वर्णात्मको वेद इति स्फुटं च। .