________________ नियादर्शनमुक्तानि श्वानशूकरसर्पाद्या, दृश्यन्ते बहुसूनवः / तत्ते दिवं प्रयास्यन्ति, न बालब्रह्मचारिणः॥१४॥ पुत्ररावर्जितं पिण्डं, लभेते पितरौ यदि / तृप्तास्तत् किमु भुक्तेन, कस्याऽपि पितरो वयम् // 15 // सस्यानीवोपरे क्षेत्रे, निक्षिप्तानि कदाचन / न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते // 16 // अदेवागुर्वधर्मेषु, या देवगुरुधर्मधीः / तन्मिथ्यात्वं भवेद् व्यक्तं, अव्यक्तं मोहलक्षणम् // 17 // कामरागस्नेहरागावीपत्करनिबारणौ / दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि // 18 // उत्तिष्ठन्त्यारतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्या / भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, शय्यामालिङ्गय नीतं वपुरलसलसबाहु लक्ष्म्याः पुनातु॥१९॥ गङ्गायां दीयते दान-मेकचित्तेन भाविना / दाताऽहो ! नरकं याति, प्रतिग्राही न जीवति // 20 // एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः // 21 // पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते। नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् // 22 //