________________ ... सुसतिसूकरत्नमाला - यदि स्मुथ देवास्तदा को विकोषो, ... नरैः सार्द्धमेषां समानत्वमाजाम् // 6 // कामानुषक्तस्य रिपुप्रहारिणः, प्रपचिनोऽनुग्रहशापकारिणः / सामान्यपुंवर्गसमानधर्मिणो, महत्वक्लृप्तौ सकलस्य तद्भवेत् // 7 // जीवादितत्त्वविपुलैकस्तपोभिः, मुक्तो न तामलिरजातसुसाधुसंगः। कः स्वर्णसिद्धिमधिगच्छति कूटकल्कैः, को वाऽम्बुधिं तरति जर्जरयानपात्रः // 8 // मिथ्यात्वं परमो रोगो, मिथ्यात्वं परमं तमः / मिथ्यात्वं परमः शत्रुः, मिथ्यात्वं परमं विषम् // 9 // जन्मन्येकत्र दुःखाय, रोगो ध्वान्तं रिपुर्विषन् / अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सित्तम् // 10 // सर्व पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु / कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते // 11 // पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः। जटी मुण्डी शिखी वाऽपि, मुच्यते नात्र संशयः // 12 // तथा हि यागहोमादिकर्माणीष्टानि कुर्वताम् / वापीकूपतडागादीन्यपि पूर्वान्यनेकशः // 13 //