________________ 59 मिथ्यादर्शनसूक्तानि बोहिलाभो उ पेच्च जिणघम्मसंपत्ति इति संघाचारभाष्ये, बोधिलाभः प्रेत्य धर्मावाप्तिरुच्यते इति आवश्यकनियुक्तिदीपिका पृष्ठ-१५८ कायोत्सर्गाध्ययने / ___ बोधिर्जिनप्रणितधर्मप्राप्तिः तत्त्वार्थश्रद्धानलक्षणसम्यगदर्शनरूपा इति राजप्रश्नीयोपाङ्गे श्रीमलयगिरिपादाः। 16 मिथ्यादर्शनसूक्तानि स्त्रीसंगः काममाचष्टे, द्वेषमायुधसंग्रहः। व्यामोहश्चाक्षसूत्रादि, त्वशौचं च कमण्डलुः // 1 // ऋणं देवस्य यागेन, ऋषीणां दानकर्मणा / सन्तत्या पितृलोकानां, शोधयित्वा परिव्रजेत् // 2 // सरागोऽपि हि देवश्चेद् , गुरुरब्रह्मचार्यपि / कृपाहीनोऽपि धर्मः स्यात् , कष्टं नष्टं हहा ! जगत् // 3 // अपुत्रस्य गति स्ति, स्वर्गों नैव च नैव च / तस्मात् पुत्रमुखं दृष्ट्वा, स्वर्गे गच्छन्ति मानवाः // 4 // अग्निर्देवो जलं तीर्थ, वधो धर्मो गुरुाही / गौर्नमस्या द्विकाः पात्रं, येषां तैः कोऽस्तु संस्तवः // 5 // सकामाः सरामाः समानाः समोहाः, सदम्भाः सलोभाः सकोपाः सपापाः।