________________ 45 वैराग्यसूक्तानि लोक: पृच्छति मे वार्ता, शरीरे कुशल तव / कुतः कुशलमस्माक-मायुर्याति दिने दिने // 7 // संसारे संवसतां, कुशलं किं पृच्छयते शरीरवताम् / पतितस्य दहनराशौ, दग्धोऽसि न वेति कः प्रश्नः ? // 8 // धर्माख्याने श्मशाने च, या मती रागिणां भवेत् / सा यदि निश्चला बुद्धिः, को न मुच्येत बन्धनात् // 9 // अस्तीहाऽमुत्र नैवाऽस्ति, नास्तीहाऽमुत्र विद्यते / अस्तीहाऽमुत्र चाप्यस्ति, तदस्ति नाप्यमुत्र च // 10 // नीरागस्य तृणं नारी, निरीहस्य तृणं नृपः। तृणं ज्ञानवतां संवे, तृणं शून्यस्य जीवितम् // 11 // ओतुः पय: पश्यति नैव दण्ड, कीरोऽपि शालीन च लोष्ठखण्डम् / काकः पलं नो बत सिंहतुण्डं, जन्तुस्तथा शं न यमं प्रचण्डम् // 12 // पलाशं पादपस्याऽपि, विरागं जायते क्रमात् / सचेतनोऽपि यो नैवं, स काष्ठादपि बालीशः // 13 // तच्छ्रतं यातु पातालं, तच्चातुर्य विलीयताम् / ते विशन्तु गुणा वह्नौ, येषु सत्स्वप्यधोगतिः॥१४॥ आपद् व्यापादिता नैव, जरा नो जर्जरीकृता / न मृत्युनिहतो जीव !, गर्व कुर्वन् न लज्जसे // 15 //