________________ सुभाषितसूक्तरत्नमाला आत्मवत् परभूतानि, परद्रव्याणि च लोष्ठषत् / मातृवत्परदारांश्च, यः पश्यति स पश्यति // 16 // देहे विमुह्य कुरुषे किमघं न वेत्सि ?, देहस्थ एव भजसे भवदुःखजालम् / लोहाश्रितो हि सहते घनघातमग्निबर्बाधा न तेऽस्य च नभोवदनाश्रयत्वे // 17 // प्रमोदसे स्वस्य यथान्यनिर्मितः, स्तवैस्तथा चेत्प्रतिपन्थिनामपि / विगहणैः स्वस्य यथोपतप्यसे, तथा रिपूणामपि चेत् ततोऽसि वित् // 18 // रागादयो हि रिपवो जिननायकेनाऽजीयन्त भो ! निजवलाद् बलिनोऽपि बाढम् / पुष्णन्ति तान् जडधियो हृदयालये ये, तेषां प्रसीदति कथं जगतामधीशः // 19 // स्वश्लाघा परनिन्दा च, मत्मरो महतां गुणे। असंबन्धप्रलापित्व-मात्मानं पातयत्यधः // 20 // अतीतसमयोपात्तं, पुण्यं भुञ्जन्ति येऽखिलम् / न बीजमपि रक्षन्ति, कुतस्तेषां पुनः सुखम् ? // 21 // अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसङ्गता / गुरुभक्तिस्तपो ज्ञानं, सत्पुष्पाणि प्रचक्षते // 22 //