________________ 44 सुभाषितसूक्तरत्नमाला क्वचिद् रम्या रामा क्वचिदपि गलत्कोष्ठवपुषो, न जाने संसारः किममृतमयः किं विषमयः ? // 1 // अहह ! सृजसि धातर्विश्वविश्वावतंसं, पुरुषमखिलविद्यावन्तमुद्यत्प्रशंसम् / तमपि यमसमीपं प्रापयन् नात्मनैव, वजसि बत विनाशं किं कृतघ्नेश! न त्वम् // 2 // ये विश्वोरुपरोपकाररसिका ये सर्वसाधारणा, ये दीनार्तिहराः स्फुरद्गणधरा ये शीलरत्माकराः / ये विद्वज्जनमौलिमण्डननिभा ये सज्जनानन्दना, धिक् सन्तः कृपणेन तेऽपि विधिना दीर्घायुषो नो कृताः॥३॥ मनो न वैराग्यतरङ्गितं चेद् , वृथा तदा ज्ञानतपःप्रयासः। लावण्यमङ्गे यदि नागनानां, मुधा तदा विभ्रमवल्गितानि॥४॥ प्रियावाणीवीणाशयनतनुसम्बाहनसुखैभवोऽयं पीयूषैटित इति पूर्वमतिरभूत् / / अकस्मादस्माकं परिकलिततत्त्वोपनिषदामिदानीमेतस्मिन्न रतिरपि तु स्वात्मनि रतिः / / 5 / / भोगे रोगभयं कुले च्युति भयं वित्ते नृपालाद्भयं, मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् / शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं, - सर्व वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् // 6 //