________________ सत्यविनिश्चयः 566 A. अकु[Ms. 59 A]शलानां कर्मपथानां मृदुमध्याधि'मात्राणां' (i) विपाकफलं तिर्यप्रेतनरकेषु वेदितव्यम् / (i) निष्यन्वफलमपायेभ्यश्च्युत्वा मनुष्येषूपपन्नानां प्रत्येकं प्राणातिपातादत्तादानाद्यानुरूप्येणात्मभावपरिग्रहयोविपत्तिः / तद्यथाऽल्पायुष्कता दारिद्रयमित्येवमादि यथायोगम् / (iii) अधिपतिफलं प्रत्येकं तदानुरूप्येणंव बाह्यानां [T. 59 A] भावानां [स]स्यादीनां विपत्तिः / तद्यथा प्राणातिपातस्याधिपत्येनाल्पोजसो भवन्त्येव मादि / ___ [Ms. additional leaf A] (4-)यथासूत्रम् - "सर्वेर्दशभिरकुशलैः कर्मपथैरासेवित वितैर्बहुलीकृतैर्नरकेष पपद्यते / तदेषां विपाकफलम् / स चेदिच्छत्व - मागच्छति मनुष्याणां सभागताम्, (i) प्राणातिपातेनाल्पायुर्भवति / (ii) अदत्तादानेन भोगव्यसनी भवति / (iii) काममिथ्याचारेण ससपत्न'दारः / (iv) मृषावादेना[Ch. 728 B]भ्याख्यानबहुलः / (v) पैशून्येन मित्रभेदोऽस्य भवति / (vi) पारुष्येणामनोज्ञशब्दश्रवणं भवति। (vii) संभिन्नप्रलापेनानादेयवाक्यः / (viii) अभिध्यया तीव्ररागः / (ix) व्यापादेन तीवद्वेषः। (x) मिथ्यादष्टया तीव्रमोहः, तस्या मोहभूयस्त्वात् / इदमेषां निष्यन्दफलम् / / (i) प्राणातिपातेनात्यासेवितेन वा ह्या भावा अल्पौजसो भवन्ति / (ii) अदत्ता[Ms. additional leaf B]दानेनाशनिरजोबहुलाः। (iii) काममिथ्याचारेण रजोऽवकीर्णाः / (iv) मृषावादेन दुर्गन्धाः / (v) पैशून्येनोत्कूलनिकूलाः / (vi) पारुष्येणोषरजङ्गलाः प्रतिक्रुष्टाः पापभूमयः / (vii) संभिन्नप्रलापेन विषम परिणामा:11 / (viii) अभिध्यया सूक्ष्मफलाः / (ix) व्यापादेन कटुकफलाः / (x) मिथ्यादृष्टयाऽल्पफला अफला वा / इदमेषामधिपतिफलम् // " __1. Ms. दि. 2. T. drops मृदुमध्याधिमात्राणां. 3. . T. न्तीत्येव° for °न्त्येव. 4- ... (+) "यथासूत्रम् ...कृतम्' is given in an additional leaf. This passage is inserted here following the Chinese. T. omits this passage. 5. Ch. नरकतिर्यकप्रेतेषु for नरकेषु. 6. Cf. Pali itthatta. 7. Ms. ससंपन्न degfor ससपत्न° cf. सपत्नदारः in Abhidharmadipa p. 179. also see Ak. IV, 85. 8. Ms. व्यो. 9. Ms. वाभा for भावा. 10. This can be read as वि. (Pali उक्कूलविकूल). See BHSD. ____11. Ms. मः.