________________ 64 अभिधर्मसमुच्चयभाष्यम् आशयोऽन्यथावत्कुकामता'। निष्ठागमनं पर्षत्प्रतिवादिविज्ञापनम् / (v) पैशन्यस्य वस्तु समग्रव्यग्राः सत्त्वाः। आशयस्तेषामेव भेदाप्रतिसंधानाभिप्रायः / निष्ठाग[Ms.58A]मनं भेद्य विज्ञापनम् / (vi)पारुष्यस्य वस्त्वाघातनिमित्तभूताः सत्त्वाः / [T. 58A] निष्ठागमनं पारुषाणाम् / (vii) संभिन्नप्रलापस्य वस्त्वनर्थोपसंगृहीतार्थः / निष्ठागमनं तस्य भाषणम्। (viii) अभिध्याया वस्तु परकीयं वित्तोपकरणम् / -आशयस्तत्र तत्संज्ञिनस्तथारुचिः। प्रयोगस्तत्स्वीकरण-3 संप्रधारणम् / निष्ठागमनं तत्स्वीकरणनिश्चयः / (ix) व्यापादस्य वस्त्वाघातनिमित्तभूताः सत्त्वाः। निष्ठागमनं प्रहनननिश्चयः। (x) मिथ्यादृष्टेर्वस्तु सन्नर्थः / आशयः सत्यतत्संज्ञिन स्तथारुचिः / निष्ठागमनमपवादनिश्चयः // . 664 (i) पराज्ञप्तिसंचेतनीयता यथा कश्चिदनिच्छन्नपि परैर्बलादाज्ञाप्यमनोऽभिसंधायाकुशलमाचरति / (ii) परसंज्ञप्तिसंचेतनीयता यथा कश्चिदनिच्छन्निव परैः संज्ञाप्यमान: समादाप्यमानो हितमेतदिति ग्राह्यमाणोऽभिसंधायाकुशलमाचरति / (iii) अविज्ञाय संचेतनीयता यथा कश्चिद्गुणदोषानभिज्ञोऽनभिनिविष्ट: यदृच्छयाभिसंधायाकुशलमाचरति। (iv) मूलाभिनिवेशसंचेतनीयता यथा कश्चिदकुशलमूलैः लोभादिभिरभिभूत आविष्टचित्तस्तीव्रणाभिनिवेशेनाभिसंधायाकुशलमा[Ms. 58 B]चरति। (v) विपर्याससंचेतनीयता यथा कश्चिद्धर्मकामो विषमहेतुष्टि [Ch. 728 A] रायत्यामिष्टफलार्थमभिसंधायाकुशलमा[T. 58 B] चरति / तत्र पूर्विकाभिस्तिसभिः संचेतनीयताभिः कृतमपि कर्म नैवोपचीयते यतोऽस्य नावश्यं विपाक: प्रतिसंवेदनीयः / पश्चिमाभ्यां तु संचेतनीयाभ्यां यदि कृतं भवत्युपचितं चावश्यमेवास्य विपाकः प्रतिसंवेद्यते / उपचयो वासनावृद्धिरित्यालयविज्ञाने विपाकवीज परिपोषणं वेदितव्यम् / / 565 (i)[As.P. 54] कर्मक्रियानियमः पूर्वकर्मभिरेव नियम्य विपाकसंततिराविद्धा भवति / यदस्मिन् जन्मन्यनेनेदं कर्म करणीयमिति स तमवधिमलंघयित्वा तत्कर्म करोति, यस्याकरणाय प्रतिबन्धं बुद्धा अपि भगवन्तो न समर्थाः कर्तुम् यथाहेतुनियमनं फलसंतानपरिणामादिति / (ii) विपाकप्रतिसंवेदनानियमः संचेतनीयस्य कर्मणः पूर्ववत् / (iii) अवस्थानियमे दृष्टधर्मवेदनीयादिभिरवस्थापि नियमिता भवतीति / यथानेन विपाकेन दृष्टे धर्मे भवितव्यमनेनोपपद्यानेनापरस्मिन् पर्याय इति // 1. T. & Ch. अन्यथासंज्ञाऽन्यथावक्तुकामता. 2. Ms. ज्ञ. 3-...(-3) "आशयं..स्वीकरण" is in the bottom margin of Ms. 4. Ms. णं. 5. Ms. inserts तथा. 6. Ms. जीव for बीज.