SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सत्यविनिश्चयः विमुक्त्यानुत्तयं च / तत्र (a) ज्ञानानुत्तयं नैरात्म्यज्ञानम, ततः परेण ज्ञानान्तरापर्येषणा[त्] / (b) प्रतिपदानुत्तयं सुखा क्षिप्राभिज्ञा, तस्याः सर्वप्रतिपदग्रत्वात् / (c) विमुक्त्यानुत्तर्य [Ms. 57A]मशैक्षाकोप्या च विमुक्तिः, सर्व विमुक्तिप्रतिविशिष्टत्वात् / [T. 57A] एतानि च त्रीण्यानुत्तर्याणि यथाक्रमं दर्शन, भावनानिष्ठा मार्गानधिकृत्य वेदितव्यानि / / 62 [Ch. 727B, As. P. 53] 3 (i) उपलब्धिकर्म चक्षुरादीनां रूपदर्शनादि / (ii) कारित्रकर्म पृथिव्यादीनां धारणादि यद्वा यस्य स्वलक्षणकृत्यम् / तद्यथा रूपणा रूपस्येत्येवमादि / (iii) व्यवसायकर्माभिसंधिपूर्वकं काया दिकर्म / (iv) परिणतिकर्म सुवर्णकारादीनामलंकारादि / (v) प्राप्तिकार्यमार्गादीनां निर्वाणाधिगमादि / अस्मिंस्त्वर्थे यद्भूयस्या व्यवसा कर्माभिप्रेतमिति प्राप्तिकारित्रकर्मणोरपि संभवात् / / $ 63. कायादिकर्म कर्मपथा इति सूत्रानुसारेण यथाप्रधानं निर्देशो वेदितव्यः, तत्प्रयोगादीनापि कायादि कर्मान्तर्भावात / त्रयश्चत्वारस्त्रयश्च कर्मपथा यथाक्रमं कायवाङ्मनःकर्मलक्षणा वेदितव्याः // प्राणातिपातादीनां (a) वस्तु सत्त्वसंख्यातमसत्त्वसंख्यातं वा यथायोगं यदधिष्ठाय प्राणातिपातादयः प्रवर्तन्ते / (b) आशयस्तत्र वस्तुनि तत्संज्ञाशयस्तत्कर्मपथक्रियेच्छाशयश्च / (c) प्रयोगस्तत्[Ms. 57B]क्रियायै स्वयं परैर्वा कायवाङ्मनोभिरारम्भः। (d) क्लेश: लोभद्वेष[T. 57B]मोहा यथायोगं समस्तव्यस्ताः / (e) निष्ठागमनं तेन तेन प्रयोगेण तस्य तस्य कर्मणः परिपूरणं तत्कालमर्ध्वकालं वा / / तत्र (i) प्राणातिपातस्य (a) वस्तु सत्त्वः / (b) प्राशयस्तत्र तत्संज्ञिनो वधाभिप्रायः। (c) प्रयोगो वधो यत्प्रहरणादिभिः / (d) क्लेशो लोभादिकः / (e) निष्ठागमनं तस्य प्राणिनस्तेन प्रयोगेणानन्तरं पश्चाद्वा मरणम् // (ii-x) अदत्तादानादोनां वस्तू च निष्ठागमनं च निर्देक्ष्यामः। शेष यथायोगं योजयितव्यम् / (ii) अदत्तादानस्य वस्तु परपरिगृहीतं सत्त्वसंख्यातम [Ch. 727C]सत्त्वसंख्यातं वा। निष्ठागमनं तत्स्वीकरणम् / (iii) काममिथ्याचारस्य वस्त्वगम्या स्त्री गम्या वानङ्गादेशाकाले वमात्रायुक्ताभ्यां च सर्वश्च पुमान्नपुंसकं च / निष्ठागमनं द्वयद्वयसमापत्तिः / .(iv) मृषावादस्य वस्तु दृष्टं श्रुतं मतं विज्ञातमदृष्टमश्रुतममतमविज्ञातं च / 1. Ms. adds अन्य. 2. Ch. अशैक्ष for निष्ठा. 3. T. chapter v. 4. Ms. मितिपि for मपि. 5. Ms. प. 6. Ch. सत्त्वसंख्यातम्.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy